Sukta 5.87
गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत् । ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥
गन्ता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत् । ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतस॒: स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥
gántā no yajñáṃ yajñiyāḥ suśámi śrótā hávam arákṣa évayā́marut | jyéṣṭhāso ná párvatāso vyómani yūyáṃ tásya pracetasaḥ syāta durdhártavo nidáḥ ||
Come to our sacrifice, O you worthy of the sacrifice; in the happy peace hear our call and guard it, O Maruts of the forward-leading movement. Like elder mountains in the wide heaven, you are the conscious ones of that (Truth); may you be hard to hold by the hostile cry—unassailable against the forces of denial.
गन्त॑ । नः॒ । य॒ज्ञम् । य॒ज्ञि॒याः॒ । सु॒ऽशमि॑ । श्रोत॑ । हव॑म् । अ॒र॒क्षः । ए॒व॒याम॑रुत् । ज्येष्ठा॑सः । न । पर्व॑तासः । विऽओ॑मनि । यू॒यम् । तस्य॑ । प्र॒ऽचे॒त॒सः॒ । स्यात॑ । दुः॒ऽधर्त॑वः । नि॒दः ॥गन्त । नः । यज्ञम् । यज्ञियाः । सुशमि । श्रोत । हवम् । अरक्षः । एवयामरुत् । ज्येष्ठासः । न । पर्वतासः । विओमनि । यूयम् । तस्य । प्रचेतसः । स्यात । दुःधर्तवः । निदः ॥ganta | naḥ | yajñam | yajñiyāḥ | su-śami | śrota | havam | arakṣaḥ | evayāmarut | jyeṣṭhāsaḥ | na | parvatāsaḥ | vi-omani | yūyam | tasya | pra-cetasaḥ | syāta | duḥ-dhartavaḥ | nidaḥ