Sukta 5.87
अपारो वो महिमा वृद्धशवसस्त्वेषं शवोऽवत्वेवयामरुत् । स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥
अ॒पा॒रो वो॑ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो॑ऽवत्वेव॒याम॑रुत् । स्थाता॑रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नय॑: ॥
apā́ro vo mahimā́ vṛddha-śavasaḥ tveṣáṃ śávo’vatu evayā́marut | sthā́tāro hí pra-sitáu sam-dṛ́śi sthána te na uruṣyatā nidáḥ śuśukvā́ṃso nā́gnáyaḥ ||
Measureless is your greatness, O you of increased might; may your fierce force protect, O Maruts. For you stand firm in the forward-urge, visible in the common seeing; protect us from the revilers, you who blaze like fires.
अ॒पा॒रः । वः॒ । म॒हि॒मा । वृ॒द्ध॒ऽश॒व॒सः॒ । त्वे॒षम् । शवः॑ । अ॒व॒तु॒ । ए॒व॒याम॑रुत् । स्थाता॑रः । हि । प्रऽसि॑तौ । स॒म्ऽदृशि॑ । स्थन॑ । ते । नः॒ । उ॒रु॒ष्य॒त॒ । नि॒दः । शु॒शु॒क्वांसः॑ । न । अ॒ग्नयः॑ ॥अपारः । वः । महिमा । वृद्धशवसः । त्वेषम् । शवः । अवतु । एवयामरुत् । स्थातारः । हि । प्रसितौ । सम्दृशि । स्थन । ते । नः । उरुष्यत । निदः । शुशुक्वांसः । न । अग्नयः ॥apāraḥ | vaḥ | mahimā | vṛddha-śavasaḥ | tveṣam | śavaḥ | avatu | evayāmarut | sthātāraḥ | hi | pra-sitau | sam-dṛśi | sthana | te | naḥ | uruṣyata | nidaḥ | śuśukvāṃsaḥ | na | agnayaḥ