Sukta 5.87
स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत् । येना सहन्त ऋञ्जत स्वरोचिषः स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥
स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा॑ त्वे॒षो य॒यिस्त॑वि॒ष ए॑व॒याम॑रुत् । येना॒ सह॑न्त ऋ॒ञ्जत॒ स्वरो॑चिष॒: स्थार॑श्मानो हिर॒ण्यया॑: स्वायु॒धास॑ इ॒ष्मिण॑: ॥
svanó ná vo’má-vān rejayád vṛ́ṣā tveṣó yayís taviṣá evayā́marut | yénā sáhanta ṛ́ñjata svá-rociṣaḥ sthā́-raśmāno hiraṇyáyāḥ svā́yudhāsa iṣmíṇaḥ ||
Like a resounding sound your forceful Bull shakes (all); fierce, rushing, mighty—O Maruts. By that power you prevail and flush into brightness, self-luminous; with firm rays, golden, self-armed, impelling—(you move) as powers of concentrated energy.
स्व॒नः । न । वः॒ । अम॑ऽवान् । रे॒ज॒य॒त् । वृषा॑ । त्वे॒षः । य॒यिः । त॒वि॒षः । ए॒व॒याम॑रुत् । येन॑ । सह॑न्तः । ऋ॒ञ्जत॑ । स्वऽरो॑चिषः । स्थाःऽर॑श्मानः । हि॒र॒ण्ययाः॑ । सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ ॥स्वनः । न । वः । अमवान् । रेजयत् । वृषा । त्वेषः । ययिः । तविषः । एवयामरुत् । येन । सहन्तः । ऋञ्जत । स्वरोचिषः । स्थाःरश्मानः । हिरण्ययाः । सुआयुधासः । इष्मिणः ॥svanaḥ | na | vaḥ | ama-vān | rejayat | vṛṣā | tveṣaḥ | yayiḥ | taviṣaḥ | evayāmarut | yena | sahantaḥ | ṛñjata | sva-rociṣaḥ | sthāḥ-raśmānaḥ | hiraṇyayāḥ | su-āyudhāsaḥ | iṣmiṇaḥ