Sukta 5.87
स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत् । यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥
स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् । य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभि॑: ॥
sá cakrame maható nír uru-krámaḥ samānásmā́t sádasa evayā́marut | yad ā́yukta tmanā́ svā́d ádhi ṣṇúbhir ví-spardhaso ví-mahaso jigā́ti śe-vṛ́dho nṛ́bhiḥ ||
He has strode out from the greatness, wide in his going, from the common seat, O Maruts. When he yoked (his powers) by his own self-nature, then through the surging currents he conquers the rival forces, he overpasses the vast resistances—he who increases the auspicious for men.
सः । च॒क्र॒मे॒ । म॒ह॒तः । निः । उ॒रु॒ऽकृअ॒मः । स॒मा॒नस्मा॑त् । सद॑सः । ए॒व॒याम॑रुत् । य॒दा । अयु॑क्त । त्मना॑ । स्वात् । अधि॑ । स्नुऽभिः॑ । विऽस्प॑र्धसः । विऽम॑हसः । जिगा॑ति । शेऽवृ॑धः । नृऽभिः॑ ॥सः । चक्रमे । महतः । निः । उरुकृअमः । समानस्मात् । सदसः । एवयामरुत् । यदा । अयुक्त । त्मना । स्वात् । अधि । स्नुभिः । विस्पर्धसः । विमहसः । जिगाति । शेवृधः । नृभिः ॥saḥ | cakrame | mahataḥ | niḥ | uru-kṛamaḥ | samānasmāt | sadasaḥ | evayāmarut | yadā | ayukta | tmanā | svāt | adhi | snu-bhiḥ | vi-spardhasaḥ | vi-mahasaḥ | jigāti | śe--vṛdhaḥ | nṛ-bhiḥ