Sukta 5.87
प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् । न येषामिरी सधस्थ ईष्ट आँ अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥
प्र ये दि॒वो बृ॑ह॒तः शृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत् । न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युत॒: प्र स्य॒न्द्रासो॒ धुनी॑नाम् ॥
prá ye divó bṛhatáḥ śṛṇviré girā́ su-śúkvānaḥ su-bhvá evayā́marut | ná yeṣām ī́rī sadhástha ī́ṣṭa ā́ṃ agnáyo ná sva-vidyútaḥ prá spandrā́saḥ dhunī́nām ||
Forward are they who from the wide heaven hear the word of the chant, bright-flaming and of good becoming, O Maruts. Their impelling energy does not fail in the common seat; like fires with their own lightning, the quiverings of their thunderous powers stream forth.
प्र । ये । दि॒वः । बृ॒ह॒तः । शृ॒ण्वि॒रे । गि॒रा । सु॒ऽशुक्वा॑नः । सु॒ऽभ्वः॑ । ए॒व॒याम॑रुत् । न । येषा॑म् । इरी॑ । स॒धऽस्थे॑ । ईष्टे॑ । आ । अ॒ग्नयः॑ । न । स्वऽवि॑द्युतः । प्र । स्प॒न्द्रासः॑ । धुनी॑नाम् ॥प्र । ये । दिवः । बृहतः । शृण्विरे । गिरा । सुशुक्वानः । सुभ्वः । एवयामरुत् । न । येषाम् । इरी । सधस्थे । ईष्टे । आ । अग्नयः । न । स्वविद्युतः । प्र । स्पन्द्रासः । धुनीनाम् ॥pra | ye | divaḥ | bṛhataḥ | śṛṇvire | girā | su-śukvānaḥ | su-bhvaḥ | evayāmarut | na | yeṣām | irī | sadha-sthe | īṣṭe | ā | agnayaḥ | na | sva-vidyutaḥ | pra | spandrāsaḥ | dhunīnām