Sukta 5.87
प्र ये जाता महिना ये च नु स्वयं प्र विद्मना ब्रुवत एवयामरुत् । क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः ॥
प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत् । क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥
prá ye jātā́ mahínā ye ca nú svayáṃ prá vidmánā brúvata evayā́marut | krátvā tád vo maruto nā́dhṛṣe śávo dānā́ mahnā́ tád eṣām ádhṛṣṭāso nā́drayaḥ ||
Forward are they who are born in greatness, and even now of themselves proclaim it by their knowing, O Maruts. By will and power that is your irresistible might; by the largeness of giving that is theirs—unassailed, like firm stones, they stand.
प्र । ये । जा॒ताः । म॒हि॒ना । ये । च॒ । नु । स्व॒यम् । प्र । वि॒द्मना॑ । ब्रु॒वते॑ । ए॒व॒याम॑रुत् । क्रत्वा॑ । तत् । वः॒ । म॒रु॒तः॒ । न । आ॒ऽधृषे॑ । शवः॑ । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् । अधृ॑ष्टासः । न । अद्र॑यः ॥प्र । ये । जाताः । महिना । ये । च । नु । स्वयम् । प्र । विद्मना । ब्रुवते । एवयामरुत् । क्रत्वा । तत् । वः । मरुतः । न । आधृषे । शवः । दाना । मह्ना । तत् । एषाम् । अधृष्टासः । न । अद्रयः ॥pra | ye | jātāḥ | mahinā | ye | ca | nu | svayam | pra | vidmanā | bruvate | evayāmarut | kratvā | tat | vaḥ | marutaḥ | na | ādhṛṣe | śavaḥ | dānā | mahnā | tat | eṣām | adhṛṣṭāsaḥ | na | adrayaḥ