Sukta 5.86
या पृतनासु दुष्टरा या वाजेषु श्रवाय्या । या पञ्च चर्षणीरभीन्द्राग्नी ता हवामहे ॥
या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑ । या पञ्च॑ चर्ष॒णीर॒भी॑न्द्रा॒ग्नी ता ह॑वामहे ॥
yā́ pṛ́tanāsu duṣṭárā yā́ vā́jeṣu śravā́yyā | yā́ páñca carṣaṇī́r abhī́ndrāgnī tā́ havāmahe ||
That Indra-and-Agni power which is hard to cross in battles, which brings the hearing of glory in the plenitudes, which stands facing and uplifting the five peoples—that we call. Become within us the victorious force and the fame of truth, conquering the inner war.
या । पृत॑नासु । दु॒स्तरा॑ । या । वाजे॑षु । श्र॒वाय्या॑ । या । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥या । पृतनासु । दुस्तरा । या । वाजेषु । श्रवाय्या । या । पञ्च । चर्षणीः । अभि । इन्द्राग्नी इति । ता । हवामहे ॥yā | pṛtanāsu | dustarā | yā | vājeṣu | śravāyyā | yā | pañca | carṣaṇīḥ | abhi | indrāgnī iti | tā | havāmahe