Sukta 5.86
इन्द्राग्नी यमवथ उभा वाजेषु मर्त्यम् । दृळ्हा चित्स प्र भेदति द्युम्ना वाणीरिव त्रितः ॥
इन्द्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्य॑म् । दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥
índrāgnī yám avátha ubhā́ vā́jeṣu mártyam | dṛḷhā́ cít sá prá bhédati dyumnā́ vā́ṇīr-iva tritáḥ ||
Indra and Agni—whomever you two uphold in the plenitudes of force, that mortal breaks even what is firmly fixed, as Trita breaks forth radiant utterances. For when Will and Power join, the inner obstacles crack and the light-bearing word emerges.
इन्द्रा॑ग्नी॒ इति॑ । यम् । अव॑थः । उ॒भा । वाजे॑षु । मर्त्य॑म् । दृ॒ळ्हा । चि॒त् । सः । प्र । भे॒द॒ति॒ । द्यु॒म्ना । वाणीः॑ऽइव । त्रि॒तः ॥इन्द्राग्नी इति । यम् । अवथः । उभा । वाजेषु । मर्त्यम् । दृळ्हा । चित् । सः । प्र । भेदति । द्युम्ना । वाणीःइव । त्रितः ॥indrāgnī iti | yam | avathaḥ | ubhā | vājeṣu | martyam | dṛḷhā | cit | saḥ | pra | bhedati | dyumnā | vāṇīḥ-iva | tritaḥ