Sukta 5.85
अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा । वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् ॥
अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा । वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥
aryamyáṃ varuṇa mitryáṃ vā sakhā́yaṃ vā sadám id bhrā́taraṃ vā | véśaṃ vā nítyaṃ varuṇā́raṇaṃ vā yát sīm ā́gaś cakṛmā́ śiśráthas tát ||
Whether it was against Aryaman’s harmony, or Mitra’s truth of right relation, or against a friend, or a constant brother; whether against one of our own house or an ever-present companion—whatever wrong we have done, loosen that knot, O Varuṇa. Release the inner binding so we may return to the law of right being.
अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ । वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥अर्यम्यम् । वरुण । मित्र्यम् । वा । सखायम् । वा । सदम् । इत् । भ्रातरम् । वा । वेशम् । वा । नित्यम् । वरुण । अरणम् । वा । यत् । सीम् । आगः । चकृम । शिश्रथः । तत् ॥aryamyam | varuṇa | mitryam | vā | sakhāyam | vā | sadam | it | bhrātaram | vā | veśam | vā | nityam | varuṇa | araṇam | vā | yat | sīm | āgaḥ | cakṛma | śiśrathaḥ | tat