Sukta 5.85
इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष । एकं यदुद्ना न पृणन्त्येनीरासिञ्चन्तीरवनयः समुद्रम् ॥
इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष । एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑रासि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ॥
imā́m ū̀ nú kavítamasya māyā́ṃ mahī́ṃ devásya nákir ā́ dadharṣa | ékaṃ yád udnā́ ná pṛṇanty énīr āsiñcántīr avánayaḥ samudrám ||
This great formative power of the most-seeing god—none has overmastered it. Though the rivers ceaselessly pour their waters, they do not fill the One Ocean: so too the movements of life can be gathered into the vast without exhausting it—Varuṇa’s infinity holds all currents while keeping the order of their flow.
इ॒माम् । ऊँ॒ इति॑ । नु । क॒विऽत॑मस्य । मा॒याम् । म॒हीम् । दे॒वस्य॑ । नकिः॑ । आ । द॒ध॒र्ष॒ । एक॑म् । यत् । उ॒द्ना । न । पृ॒णन्ति॑ । एनीः॑ । आ॒ऽसि॒ञ्चन्तीः॑ । अ॒वन॑यः । स॒मु॒द्रम् ॥इमाम् । ऊँ इति । नु । कवितमस्य । मायाम् । महीम् । देवस्य । नकिः । आ । दधर्ष । एकम् । यत् । उद्ना । न । पृणन्ति । एनीः । आसिञ्चन्तीः । अवनयः । समुद्रम् ॥imām | oṃ iti | nu | kavi-tamasya | māyām | mahīm | devasya | nakiḥ | ā | dadharṣa | ekam | yat | udnā | na | pṛṇanti | enīḥ | āsiñcantīḥ | avanayaḥ | samudram