Sukta 5.85
इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचम् । मानेनेव तस्थिवाँ अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥
इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चम् । माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥
imā́m ū̀ ṣvā́surasya śrutásya mahī́ṃ māyā́ṃ váruṇasya prá vocam | mā́nena-iva tasthivā́ṃ antárikṣe ví yó mamé pṛthivī́ṃ sū́ryeṇa ||
Now I declare this mighty working of Varuṇa, the Asura, the far-heard: he stands in the mid-region as if with a measuring-rod, and he has measured out the earth by the Sun—setting right proportions in our life by the light of truth, so the being may be ordered according to ṛta.
इमाम् । ऊँ॒ इति॑ । सु । आ॒सु॒रस्य॑ । श्रु॒तस्य॑ । म॒हीम् । मा॒याम् । वरु॑णस्य॑ । प्र । वो॒च॒म् । माने॑नऽइव । त॒स्थि॒ऽवान् । अ॒न्तरि॑क्षे । वि । यः । म॒मे । पृ॒थि॒वीम् । सूर्ये॑ण ॥इमाम् । ऊँ इति । सु । आसुरस्य । श्रुतस्य । महीम् । मायाम् । वरुणस्य । प्र । वोचम् । मानेनइव । तस्थिवान् । अन्तरिक्षे । वि । यः । ममे । पृथिवीम् । सूर्येण ॥imām | oṃ iti | su | āsurasya | śrutasya | mahīm | māyām | varuṇasya | pra | vocam | mānena-iva | tasthi-vān | antarikṣe | vi | yaḥ | mame | pṛthivīm | sūryeṇa