Sukta 5.85
उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित् । समभ्रेण वसत पर्वतासस्तविषीयन्तः श्रथयन्त वीराः ॥
उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् । सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्त॑: श्रथयन्त वी॒राः ॥
unátti bhū́miṃ pṛthivī́m utá dyā́m yadā dúgdhaṃ váruṇo váṣṭy ā́dit | sam abhréṇa vasata párvatāsas tavīṣī́yantaḥ śrathayanta vīrā́ḥ ||
He moistens and opens the earth—this wide foundation—and even the heaven, when Varuṇa wills the milked-out essence to pour. Then the mountains clothe themselves with cloud; the strong ones, gathering force, loosen what was bound—so the blocked energies yield and the life-field is made workable for the soul’s increase.
उ॒नत्ति॑ । भूमि॑म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु॑णः । व॒ष्टि॒ । आत् । इत् । सम् । अ॒भ्रेण॑ । व॒स॒त॒ । पर्व॑तासः । त॒वि॒षी॒ऽयन्तः॑ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥उनत्ति । भूमिम् । पृथिवीम् । उत । द्याम् । यदा । दुग्धम् । वरुणः । वष्टि । आत् । इत् । सम् । अभ्रेण । वसत । पर्वतासः । तविषीयन्तः । श्रथयन्त । वीराः ॥unatti | bhūmim | pṛthivīm | uta | dyām | yadā | dugdham | varuṇaḥ | vaṣṭi | āt | it | sam | abhreṇa | vasata | parvatāsaḥ | taviṣī-yantaḥ | śrathayanta | vīrāḥ