Sukta 5.85
नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम् । तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥
नी॒चीन॑बारं॒ वरु॑ण॒: कव॑न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् । तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥
nīcī́nabāraṃ váruṇaḥ kávandhaṃ prá sasarja ródasī antárikṣam | téna víśvasya bhúvanasya rājā yávam ná vṛṣṭír vyùnatti bhū́ma ||
Varuṇa has released the downward-drawn covering (the veiling lid) between Heaven-and-Earth, into the mid-world. By that act the King of all becoming separates and spreads out the ground of our being, as rain loosens and opens the field like barley for growth—making the inner earth ready for the descent of truth and increase.
नी॒चीन॑ऽबारम् । वरु॑णः । कव॑न्धम् । प्र । स॒स॒र्ज॒ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् । तेन॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । यव॑म् । न । वृ॒ष्टिः । वि । उ॒न॒त्ति॒ । भूम॑ ॥नीचीनबारम् । वरुणः । कवन्धम् । प्र । ससर्ज । रोदसी इति । अन्तरिक्षम् । तेन । विश्वस्य । भुवनस्य । राजा । यवम् । न । वृष्टिः । वि । उनत्ति । भूम ॥nīcīna-bāram | varuṇaḥ | kavandham | pra | sasarja | rodasī iti | antarikṣam | tena | viśvasya | bhuvanasya | rājā | yavam | na | vṛṣṭiḥ | vi | unatti | bhūma