Sukta 5.85
वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु । हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ ॥
वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥
vánēṣu vy àntárikṣaṃ tatāna vā́jam árvatsu páya usríyāsu | hṛtsú krátum váruṇo apsv àgníṃ diví sū́ryam adadhāt sómam ádrau ||
In the forests he stretched out the midspace; he set the plenitude among the steeds, the milk among the shining cows. Varuṇa placed will in the hearts, Agni in the waters, the Sun in heaven, and Soma in the rock—ordering each power in its right seat.
वने॑षु । वि । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॑त्ऽसु । पयः॑ । उ॒स्रिया॑सु । हृ॒त्ऽसु । क्रतु॑म् । वरु॑णः । अ॒प्ऽसु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ॥वनेषु । वि । अन्तरिक्षम् । ततान । वाजम् । अर्वत्सु । पयः । उस्रियासु । हृत्सु । क्रतुम् । वरुणः । अप्सु । अग्निम् । दिवि । सूर्यम् । अदधात् । सोमम् । अद्रौ ॥vaneṣu | vi | antarikṣam | tatāna | vājam | arvat-su | payaḥ | usriyāsu | hṛt-su | kratum | varuṇaḥ | ap-su | agnim | divi | sūryam | adadhāt | somam | adrau