Sukta 5.85
प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय । वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥
प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ । वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥
prá samrā́je bṛhád arcā gabhīráṃ bráhma priyáṃ váruṇāya śrutā́ya | ví yó jaghā́na śamitā́-iva cármo ’pa-stíre pṛthivī́ṃ sū́ryāya ||
Sing forth the vast and deep sacred utterance to Varuṇa, the King who is heard. He who spread out the Earth for the Sun, as a tanner stretches a hide, establishing the ordered field for light to move.
प्र । स॒म्ऽराजे॑ । बृ॒हत् । अ॒र्च॒ । ग॒भी॒रम् । ब्रह्म॑ । प्रि॒यम् । वरु॑णाय । श्रु॒ताय॑ । वि । यः । ज॒घान॑ । श॒मि॒ताऽइ॑व । चर्म॑ । उ॒प॒ऽस्तिरे॑ । पृ॒थि॒वीम् । सूर्या॑य ॥प्र । सम्राजे । बृहत् । अर्च । गभीरम् । ब्रह्म । प्रियम् । वरुणाय । श्रुताय । वि । यः । जघान । शमिताइव । चर्म । उपस्तिरे । पृथिवीम् । सूर्याय ॥pra | sam-rāje | bṛhat | arca | gabhīram | brahma | priyam | varuṇāya | śrutāya | vi | yaḥ | jaghāna | śamitāiva | carma | upa-stire | pṛthivīm | sūryāya