Sukta 5.83
यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः । प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥
यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृत॑: । प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥
yát párjanya kaníkradat stanáyan háṃsi duṣ-kṛ́taḥ | pratī́daṃ víśvaṃ modate yát kíṃ ca pṛthivyā́m ádhi ||
When you, Parjanya, cry again and again, thundering, you smite the ill-made and the wrong; in response all this world rejoices—whatever is upon the Earth.
यत् । प॒र्ज॒न्य॒ । कनि॑क्रदत् । स्त॒नय॑न् । हंसि॑ । दुः॒ऽकृतः॑ । प्रति॑ । इ॒दम् । विश्व॑म् । मो॒द॒ते॒ । यत् । किम् । च॒ । पृ॒थि॒व्याम् । अधि॑ ॥यत् । पर्जन्य । कनिक्रदत् । स्तनयन् । हंसि । दुःकृतः । प्रति । इदम् । विश्वम् । मोदते । यत् । किम् । च । पृथिव्याम् । अधि ॥yat | parjanya | kanikradat | stanayan | haṃsi | duḥ-kṛtaḥ | prati | idam | viśvam | modate | yat | kim | ca | pṛthivyām | adhi