Sukta 5.83
अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ । अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥
अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ । अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षाम् ॥
ávārṣīr várṣam úd u ṣū́ gṛbhā́yā́ka dhánvāny áty etavā́ u | ájījano óṣadhīr bhójanāya kám ut prá-jābhyo ’vido manīṣā́m ||
You have rained; you have lifted up the rain to be firmly held, so that the dry places may be crossed beyond. You have brought forth the herbs for our nourishment; and what inspiration of understanding have you found for the generations?
अव॑र्षीः । व॒र्षम् । उत् । ऊँ॒ इति॑ । सु । गृ॒भा॒य॒ । अकः॑ । धन्वा॑नि । अति॑ऽए॒त॒वै॒ । ऊँ॒ इति॑ । अजी॑जनः । ओष॑धीः । भोज॑नाय । कम् । उ॒त । प्र॒ऽजाभ्यः॑ । अ॒वि॒दः॒ । म॒नी॒षाम् ॥अवर्षीः । वर्षम् । उत् । ऊँ इति । सु । गृभाय । अकः । धन्वानि । अतिएतवै । ऊँ इति । अजीजनः । ओषधीः । भोजनाय । कम् । उत । प्रजाभ्यः । अविदः । मनीषाम् ॥avarṣīḥ | varṣam | ut | oṃ | iti | su | gṛbhāya | akaḥ | dhanvāni | ati-etavai | oṃ iti | ajījanaḥ | oṣadhīḥ | bhojanāya | kam | uta | pra-jābhyaḥ | avidaḥ | manīṣām