Sukta 5.83
महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥
म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् । घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्य॑: ॥
mahā́ntaṃ kóśam úd acā ní ṣiñca syándantāṃ kulyā́ ví-sitāḥ purástāt | ghṛténa dyā́vā-pṛthivī́ vy ùndhi su-prapā́ṇaṃ bhavatu aghnyā́bhyaḥ ||
Pour down from the great vessel; let the opened channels flow forth in front. With the clarified richness anoint Heaven and Earth; let there be a perfect drink for the un-slain powers (the cows), the radiant energies of increase.
म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । नि । सि॒ञ्च॒ । स्यन्द॑न्ताम् । कु॒ल्याः । विऽसि॑ताः । पु॒रस्ता॑त् । घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । वि । उ॒न्धि॒ । सु॒ऽप्र॒पा॒नम् । भ॒व॒तु॒ । अ॒घ्न्याभ्यः॑ ॥महान्तम् । कोशम् । उत् । अच । नि । सिञ्च । स्यन्दन्ताम् । कुल्याः । विसिताः । पुरस्तात् । घृतेन । द्यावापृथिवी इति । वि । उन्धि । सुप्रपानम् । भवतु । अघ्न्याभ्यः ॥mahāntam | kośam | ut | aca | ni | siñca | syandantām | kulyāḥ | vi-sitāḥ | purastāt | ghṛtena | dyāvāpṛthivī iti | vi | undhi | su-prapānam | bhavatu | aghnyābhyaḥ