Sukta 5.83
दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः । अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥
दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धारा॑: । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता न॑: ॥
divó no vṛṣṭíṃ maruto rarīdhvaṃ prá pinvata vṛ́ṣṇo áśvasya dhā́rāḥ | arvā́ṅ eténa stanayitnunéhy ápo ní-siñcann ásuraḥ pitā́ naḥ ||
O Maruts, make ready for us the rain from the heaven; set flowing the streams of the stallion of force. Come hither with this thunder; pouring down the waters, O Asura, become our fatherly protector.
दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒ध्व॒म् । प्र । पि॒न्व॒त॒ । वृष्णः॑ । अश्व॑स्य । धाराः॑ । अ॒र्वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒ । अ॒पः । नि॒ऽसि॒ञ्चन् । असु॑रः । पि॒ता । नाः॒ ॥दिवः । नः । वृष्टिम् । मरुतः । ररीध्वम् । प्र । पिन्वत । वृष्णः । अश्वस्य । धाराः । अर्वाङ् । एतेन । स्तनयित्नुना । आ । इहि । अपः । निसिञ्चन् । असुरः । पिता । नाः ॥divaḥ | naḥ | vṛṣṭim | marutaḥ | rarīdhvam | pra | pinvata | vṛṣṇaḥ | aśvasya | dhārāḥ | arvāṅ | etena | stanayitnunā | ā | ihi | apaḥ | ni-siñcan | asuraḥ | p itā | nāḥ