Sukta 5.83
यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति । यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥
यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति । यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पा॒: स न॑: पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥
yásya vraté pṛthivī́ nánnamīti yásya vraté śaphá-vaj járbhurīti | yásya vratá óṣadhīr viśvá-rūpāḥ sá naḥ párjanya máhi śárma yaccha ||
By whose law the Earth bows and yields; by whose law the hard-hoofed powers press forward in their driving; by whose law the herbs take on all their forms—may that Parjanya grant us the vast peace and shelter.
यस्य॑ । व्र॒ते । पृ॒थि॒वी । नन्न॑मीति । यस्य॑ । व्र॒ते । श॒फऽवत् । जर्भु॑रीति । यस्य॑ । व्र॒ते । ओष॑धीः । वि॒श्वऽरू॑पाः । सः । नः॒ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥यस्य । व्रते । पृथिवी । नन्नमीति । यस्य । व्रते । शफवत् । जर्भुरीति । यस्य । व्रते । ओषधीः । विश्वरूपाः । सः । नः । पर्जन्य । महि । शर्म । यच्छ ॥yasya | vrate | pṛthivī | nannamīti | yasya | vrate | śapha-vat | jarbhurīti | yasya | vrate | oṣadhīḥ | viśva-rūpāḥ | saḥ | naḥ | parjanya | mahi | śarma | yaccha