Sukta 5.83
प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥
प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्व॑: । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्य॑: पृथि॒वीं रेत॒साव॑ति ॥
prá vātā́ vā́nti patáyanti vi-dyúta ud óṣadhī́r jíhate pínvate svàḥ | irā́ víśvasmai bhúvanāya jāyate yát párjanyaḥ pṛthivī́ṃ rétasā́vati ||
Forward the life-breaths (winds) begin to move; the luminous forces (lightnings) leap and race. The herbs rise and awaken; the heaven is made to swell with its abundance. A nourishing power is born for all existence, when Parjanya pours his creative seed upon the Earth.
प्र । वाताः॑ । वान्ति॑ । प॒तय॑न्ति । वि॒ऽद्युतः॑ । उत् । ओष॑धीः । जिह॑ते । पिन्व॑ते । स्वः॑ । इरा॑ । विश्व॑स्मै । भुव॑नाय । जा॒य॒ते॒ । यत् । प॒र्जन्यः॑ । पृ॒थि॒वीम् । रेत॑सा । अव॑ति ॥प्र । वाताः । वान्ति । पतयन्ति । विद्युतः । उत् । ओषधीः । जिहते । पिन्वते । स्वः । इरा । विश्वस्मै । भुवनाय । जायते । यत् । पर्जन्यः । पृथिवीम् । रेतसा । अवति ॥pra | vātāḥ | vānti | patayanti | vi-dyutaḥ | ut | oṣadhīḥ | jihate | pinvate | svaḥ | irā | viśvasmai | bhuvanāya | jāyate | yat | parjanyaḥ | pṛthivīm | retasā | avati