Sukta 5.83
रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्याँ अह । दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः ॥
र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ । दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्य॑: कृणु॒ते व॒र्ष्यं१॒॑ नभ॑: ॥
rathī́va kaśáyā́śvāṃ abhikṣipánn āvír dūtā́n kṛṇute varṣyā́ṃ̐ áha | dūrā́t siṃhásya stanáthā́ udī́rate yát parjányáḥ kṛṇuté varṣyàṃ nábhaḥ ||
Like a charioteer lashing his steeds, he drives them forth; openly he makes his messengers of rain. From afar the roarings rise like a lion’s, when Parjanya fashions the rain-laden cloud.
र॒थीऽइ॑व । कश॑या । अश्वा॑न् । अ॒भि॒ऽक्षि॒पन् । आ॒विः । दू॒तान् । कृ॒णु॒ते॒ । व॒र्ष्या॑न् । अह॑ । दू॒रात् । सिं॒हस्य॑ । स्त॒नथाः॑ । उत् । ई॒र॒ते॒ । यत् । प॒र्जन्यः॑ । कृ॒णु॒ते । व॒र्ष्य॑म् । नभः॑ ॥रथीइव । कशया । अश्वान् । अभिक्षिपन् । आविः । दूतान् । कृणुते । वर्ष्यान् । अह । दूरात् । सिंहस्य । स्तनथाः । उत् । ईरते । यत् । पर्जन्यः । कृणुते । वर्ष्यम् । नभः ॥rathī-iva | kaśayā | aśvān | abhi-kṣipan | āviḥ | dūtān | kṛṇute | varṣyān | aha | dūrāt | siṃhasya | stanathāḥ | ut | īrate | yat | parjanyaḥ | kṛṇute | varṣyam | nabhaḥ