Sukta 5.83
वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् । उतानागा ईषते वृष्ण्यावतो यत्पर्जन्यः स्तनयन्हन्ति दुष्कृतः ॥
वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् । उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्य॑: स्त॒नय॒न्हन्ति॑ दु॒ष्कृत॑: ॥
ví vṛkṣā́n hanty utá hanti rakṣáso víśvaṃ bibhāya bhúvanaṃ mahā́vadhāt | utā́nāgā īṣate vṛṣṇyā́vato yát parjányā́ḥ stanáyan hánti duṣkṛ́taḥ ||
He smites the trees and he smites the powers of darkness; the whole world of becoming trembles before his great weapon. Even the guiltless are shaken when Parjanya, thundering, strikes down the doers of distortion.
वि । वृ॒क्षान् । ह॒न्ति॒ । उ॒त । ह॒न्ति॒ । र॒क्षसः॑ । विश्व॑म् । बि॒भा॒य॒ । भुव॑नम् । म॒हाऽव॑धात् । उ॒त । अना॑गाः । ई॒ष॒ते॒ । वृष्ण्य॑ऽवतः । यत् । प॒र्जन्यः॑ । स्त॒नय॑न् । हन्ति॑ । दुः॒ऽकृतः॑ ॥वि । वृक्षान् । हन्ति । उत । हन्ति । रक्षसः । विश्वम् । बिभाय । भुवनम् । महावधात् । उत । अनागाः । ईषते । वृष्ण्यवतः । यत् । पर्जन्यः । स्तनयन् । हन्ति । दुःकृतः ॥vi | vṛkṣān | hanti | uta | hanti | rakṣasaḥ | viśvam | bibhāya | bhuvanam | mahāvadhāt | uta | anāgāḥ | īṣate | vṛṣṇya-vataḥ | yat | parjanyaḥ | stanayan | hanti | duḥ-kṛtaḥ