Sukta 5.83
अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास । कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥
अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥
áchā vada tavásaṃ gī́rbhir ābhíḥ stuhí parjányam namasā́ vivāsa | kánikradad vṛṣabhó jī́radānū réto dadhāty óṣadhīṣu gárbham ||
Speak forth to the mighty one with these inspired words; praise Parjanya with reverence and call him near. Roaring, the bull of swift-giving force, he places the seed of life in the herbs—the hidden germ of growth in the earth-nature.
अच्छ॑ । व॒द॒ । त॒वस॑म् । गीः॒ऽभिः । आ॒भिः । स्तु॒हि । प॒र्जन्य॑म् । नम॑सा । वि॒वा॒स॒ । कनि॑क्रदत् । वृ॒ष॒भः । जी॒रऽदा॑नुः । रेतः॑ । द॒धा॒ति॑ । ओष॑धीषु । गर्भ॑म् ॥अच्छ । वद । तवसम् । गीःभिः । आभिः । स्तुहि । पर्जन्यम् । नमसा । विवास । कनिक्रदत् । वृषभः । जीरदानुः । रेतः । दधाति । ओषधीषु । गर्भम् ॥accha | vada | tavasam | gīḥ-bhiḥ | ābhiḥ | stuhi | parjanyam | namasā | vivāsa | kanikradat | vṛṣabhaḥ | jīra-dānuḥ | retaḥ | dadhāti | oṣadhīṣu | garbham