Sukta 5.81
उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि । उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥
उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभि॒: समु॑च्यसि । उ॒त रात्री॑मुभ॒यत॒: परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥
utá yā́si savitar trī́ṇi rocanóta sū́ryasya raśmí-bhiḥ sám ucyasi | utá rā́trīm ubhayátaḥ párīyasa utá mitró bhavasi deva dhárma-bhiḥ ||
And you go, O Savitar, through the three luminous worlds; and you are gathered with the rays of Surya. And you move around Night on both sides; and you become Mitra, O god, by your laws—establishing harmony in the ordered movement.
उ॒त । या॒सि॒ । स॒वि॒त॒रिति॑ । त्रीणि॑ । रो॒च॒ना । उ॒त । सूर्य॑स्य । र॒श्मिऽभिः॑ । सम् । उ॒च्य॒सि॒ । उ॒त । रात्री॑म् । उ॒भ॒यतः॑ । परि॑ । ई॒य॒से॒ । उ॒त । मि॒त्रः । भ॒व॒सि॒ । दे॒व॒ । धर्म॑ऽभिः ॥उत । यासि । सवितरिति । त्रीणि । रोचना । उत । सूर्यस्य । रश्मिभिः । सम् । उच्यसि । उत । रात्रीम् । उभयतः । परि । ईयसे । उत । मित्रः । भवसि । देव । धर्मभिः ॥uta | yāsi | savitariti | trīṇi | rocanā | uta | sūryasya | raśmi-bhiḥ | sam | ucyas i | uta | rātrīm | ubhayataḥ | pari | īyase | uta | mitraḥ | bhavasi | deva | dharma-bhiḥ