Sukta 5.81
यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा । यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥
yásya prayā́ṇam ánv anyá íd yayúr devā́ devásya mahimā́nam ójasā | yáḥ pā́rthivāni vimamé sá etáśo rajā́ṃsi deváḥ savitā́ mahitvanā́ ||
After whose forward movement the other gods too move, by force, to the greatness of the god—he who measured out the earthly realms: that god Savitar, with his swift steeds, has measured the spaces by his vast might.
यस्य॑ । प्र॒ऽयाम॑म् । अनु॑ । अ॒न्ये । इत् । य॒युः । दे॒वाः । दे॒वस्य॑ । म॒हि॒मान॑म् । ओज॑सा । यः । पार्थि॑वानि । वि॒ऽम॒मे । सः । एत॑शः । रजां॑सि । दे॒वः । स॒वि॒ता । म॒हि॒ऽत्व॒ना ॥यस्य । प्रयामम् । अनु । अन्ये । इत् । ययुः । देवाः । देवस्य । महिमानम् । ओजसा । यः । पार्थिवानि । विममे । सः । एतशः । रजांसि । देवः । सविता । महित्वना ॥yasya | pra-yāmam | anu | anye | it | yayuḥ | devāḥ | devasya | mahimānam | ojasā | yaḥ | pārthivāni | vi-mame | saḥ | etaśaḥ | rajāṃsi | devaḥ | savitā | mahi-tvanā