Sukta 5.81
उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः । उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवित स्तोममानशे ॥
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः । उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवित॒ स्तोम॑मानशे ॥
úteśiṣe prasavásya tvám éka íd utá pūṣā bhavasi deva yā́mabhiḥ | utédáṃ víśvaṃ bhúvanaṃ ví rājasi śyāvā́śvas te savitar stómam ānaśe ||
And thou alone art the master of the impulsion (prasava) that sets the soul in motion; and in thy goings, O god, thou becomest Pūṣan, the fostering guide. And thou art the wide ruler of this entire world of becoming; O Savitṛ of the dark steeds, accept and enjoy our hymn of affirmation.
उ॒त । ई॒शि॒षे॒ । प्र॒ऽस॒वस्य॑ । त्वम् । एकः॑ । इत् । उ॒त । पू॒षा । भ॒व॒सि॒ । दे॒व॒ । याम॑ऽभिः । उ॒त । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒सि॒ । श्या॒वऽअ॑श्वः । ते॒ । स॒वि॒त॒रिति॑ । स्तोम॑म् । आ॒न॒शे॒ ॥उत । ईशिषे । प्रसवस्य । त्वम् । एकः । इत् । उत । पूषा । भवसि । देव । यामभिः । उत । इदम् । विश्वम् । भुवनम् । वि । राजसि । श्यावअश्वः । ते । सवितरिति । स्तोमम् । आनशे ॥uta | īśiṣe | pra-savasya | tvam | ekaḥ | it | uta | pūṣā | bhavasi | deva | yāma-bhiḥ | uta | idam | viśvam | bhuvanam | vi | rājasi | śyāva-aśvaḥ | te | savitariti | stomam | ānaśe