Sukta 5.81
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे । वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥
विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥
viśvā́ rūpā́ṇi práti muñcate kavíḥ prā́sāvīd bhadráṃ dvi-páde cátuṣ-pade | ví nā́kam akhyat savitā́ varéṇyo'nu prayā́ṇam uṣáso ví rājati ||
The Seer releases all forms to their manifestation; he has set forth the good for the two-footed and the four-footed. Savitar, worthy of choosing, has made the heaven visible; following the going forth of Dawn, he shines in sovereign radiance.
विश्वा॑ । रू॒पाणि॑ । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः । प्र । अ॒सा॒वी॒त् । भ॒द्रम् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । वि । नाक॑म् । अ॒ख्य॒त् । स॒वि॒ता । वरे॑ण्यः । अनु॑ । प्र॒ऽयान॑म् । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥विश्वा । रूपाणि । प्रति । मुञ्चते । कविः । प्र । असावीत् । भद्रम् । द्विपदे । चतुःपदे । वि । नाकम् । अख्यत् । सविता । वरेण्यः । अनु । प्रयानम् । उषसः । वि । राजति ॥viśvā | rūpāṇi | prati | muñcate | kaviḥ | pra | asāvīt | bhadram | dvi-pade | catuḥ-pade | vi | nākam | akhyat | savitā | vareṇyaḥ | anu | pra-yānam | uṣasaḥ | vi | rājati