Sukta 5.81
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥
yuñjáte mana utá yuñjate dhíyo víprā víprasya bṛható vipaścítaḥ | ví hotrā́ dadhe vayunā́vid éka ín mahī́ devásya savitúḥ pári-stutiḥ ||
They yoke the mind, and they yoke the thoughts—the seers of the seer, of the Vast, the wide-knowing. The one who knows the right workings sets the powers of the offering in their proper spread; great indeed is the encompassing hymn of the god Savitar.
यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्जते॑ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ । वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥युञ्जते । मनः । उत । युञ्जते । धियः । विप्राः । विप्रस्य । बृहतः । विपःचितः । वि । होत्राः । दधे । वयुनवित् । एकः । इत् । मही । देवस्य । सवितुः । परिस्तुतिः ॥yuñjate | manaḥ | uta | yuñjate | dhiyaḥ | viprāḥ | viprasya | bṛhataḥ | vipaḥ-citaḥ | vi | hotrāḥ | dadhe | vayuna-vit | ekaḥ | it | mahī | devasya | savituḥ | pari-stutiḥ