Sukta 5.79
उत नो गोमतीरिष आ वहा दुहितर्दिवः । साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृते ॥
उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः । सा॒कं सूर्य॑स्य र॒श्मिभि॑: शु॒क्रैः शोच॑द्भिर॒र्चिभि॒: सुजा॑ते॒ अश्व॑सूनृते ॥
utá no gómātīr íṣa ā́ vahā duhitar divaḥ | sākáṃ sū́ryasya raśmíbhiḥ śukráiḥ śócadbhir arcíbhiḥ sujāte aśvasūnṛte ||
And bring to us the impulsions rich with rays, O Daughter of Heaven, together with the Sun’s beams—bright, burning with their flames—O well-born, bringing swift force and the glad word.
उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । आ । व॒ह॒ । दु॒हि॒तः॒ । दि॒वः॒ । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ । शु॒क्रैः । शोच॑त्ऽभिः । अ॒र्चिऽभिः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥उत । नः । गोमतीः । इषः । आ । वह । दुहितः । दिवः । साकम् । सूर्यस्य । रश्मिभिः । शुक्रैः । शोचत्भिः । अर्चिभिः । सुजाते । अश्वसूनृते ॥uta | naḥ | go--matīḥ | iṣaḥ | ā | vaha | duhitaḥ | divaḥ | sākam | sūryasya | raśmi-bhiḥ | śukraiḥ | śocat-bhiḥ | arci-bhiḥ | su-jāte | aśva-sūnṛte