Sukta 5.79
तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह । ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥
तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह । ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भज॑न्त सू॒रय॒: सुजा॑ते॒ अश्व॑सूनृते ॥
tébhyo dyumnáṃ bṛhád yáśa uṣo maghonyā́ vaha | yé no rā́dhāṃsy aśvyā gavyā bhájanta sūrayaḥ sujāte aśvasūnṛte ||
To them bear a luminous might and a vast glory, O bounteous Dawn—to those illumined ones who share with us the plenitudes of swift energies and of the rays (cows of light)—O well-born, bringing swift force and the glad word.
तेभ्यः॑ । द्यु॒म्नम् । बृ॒हत् । यशः॑ । उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ । ये । नः॒ । राधां॑सि । अश्व्या॑ । ग॒व्या । भज॑न्त । सू॒रयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥तेभ्यः । द्युम्नम् । बृहत् । यशः । उषः । मघोनि । आ । वह । ये । नः । राधांसि । अश्व्या । गव्या । भजन्त । सूरयः । सुजाते । अश्वसूनृते ॥tebhyaḥ | dyumnam | bṛhat | yaśaḥ | uṣaḥ | maghoni | ā | vaha | ye | naḥ | rādhāṃsi | aśvyā | gavyā | bhajanta | sūrayaḥ | su-jāte | aśva-sūnṛte