Sukta 5.79
ऐषु धा वीरवद्यश उषो मघोनि सूरिषु । ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥
ऐषु॑ धा वी॒रव॒द्यश॒ उषो॑ मघोनि सू॒रिषु॑ । ये नो॒ राधां॒स्यह्र॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सूनृते ॥
áiṣu dhā vīrávadyáśa uṣo maghoni sūríṣu | yé no rā́dhāṃsy áhrayā maghávāno árāsata sujāte aśvasūnṛte ||
Set here, among these illumined leaders, a hero-bearing glory, O bounteous Dawn—those who have granted us unwearied plenitudes—O well-born, bringing swift force and the glad word.
आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ । उषः॑ । म॒घो॒नि॒ । सू॒रिषु॑ । ये । नः॒ । राधां॑सि । अह्र॑या । म॒घऽवा॑नः । अरा॑सत । सुऽजा॑ते । अश्व॑ऽसूनृते ॥आ । एषु । धाः । वीरवत् । यशः । उषः । मघोनि । सूरिषु । ये । नः । राधांसि । अह्रया । मघवानः । अरासत । सुजाते । अश्वसूनृते ॥ā | eṣu | dhāḥ | vīra-vat | yaśaḥ | uṣaḥ | maghoni | sūriṣu | ye | naḥ | rādhāṃsi | ahrayā | magha-vānaḥ | arāsata | su-jāte | aśva-sūnṛte