Sukta 5.79
यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये । परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥
यच्चि॒द्धि ते॑ ग॒णा इ॒मे छ॒दय॑न्ति म॒घत्त॑ये । परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा॑ते॒ अश्व॑सूनृते ॥
yác cid dhí te gaṇā imé chadáyanti magháttaye | pári cid váṣṭayo dadhur dádatō rā́dho áhrayaṃ sujāte aśvasūnṛte ||
Even when these companies of forces seem to veil you for the sake of bounty, still the desiring ones place all around the unwearied gift of your plenitude—O well-born, bringing swift force and the glad word.
यत् । चि॒त् । हि । ते॒ । ग॒णाः । इ॒मे । छ॒दय॑न्ति । म॒घत्त॑ये । परि॑ । चि॒त् । वष्ट॑यः । द॒धुः॒ । दद॑तः । राधः॑ । अह्र॑यम् । सुऽजा॑ते । अश्व॑ऽसूनृते ॥यत् । चित् । हि । ते । गणाः । इमे । छदयन्ति । मघत्तये । परि । चित् । वष्टयः । दधुः । ददतः । राधः । अह्रयम् । सुजाते । अश्वसूनृते ॥yat | cit | hi | te | gaṇāḥ | ime | chadayanti | maghattaye | pari | cit | vaṣṭayaḥ | dadhuḥ | dadataḥ | rādhaḥ | ahrayam | su-jāte | aśva-sūnṛte