Sukta 5.79
अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः । मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥
अ॒भि ये त्वा॑ विभावरि॒ स्तोमै॑र्गृ॒णन्ति॒ वह्न॑यः । म॒घैर्म॑घोनि सु॒श्रियो॒ दाम॑न्वन्तः सुरा॒तय॒: सुजा॑त॒॑ अश्व॑सूनृते ॥
abhí ye tvā vibhāvari stomáir gṛṇánti váhnayaḥ | magháiḥ maghoni suśríyo dā́manvantaḥ surātáyaḥ sujāta aśvasūnṛte ||
Those who hymn you with chants, O Radiant One—ardent bearers of the flame—become fair in their growth; through gifts they widen, O bounteous Dawn, possessing the right bonds, rich in true giving—O well-born, bringing swift force and the glad word.
अ॒भि । ये । त्वा॒ । वि॒भा॒ऽव॒रि॒ । स्तोमैः॑ । गृ॒णन्ति॑ । वह्न॑यः । म॒घैः । म॒घो॒नि॒ । सु॒ऽश्रियः॑ । दाम॑न्ऽवन्तः । सु॒ऽरा॒तयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥अभि । ये । त्वा । विभावरि । स्तोमैः । गृणन्ति । वह्नयः । मघैः । मघोनि । सुश्रियः । दामन्वन्तः । सुरातयः । सुजाते । अश्वसूनृते ॥abhi | ye | tvā | vibhāvari | stomaiḥ | gṛṇanti | vahnayaḥ | maghaiḥ | maghoni | su-śriyaḥ | dāman-vantaḥ | su-rātayaḥ | su-jāte | aśva-sūnṛte