Sukta 5.79
सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः । यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥
सा नो॑ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः । यो व्यौच्छ॒: सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥
sā no adyā́bharadvasur vyùcchā duhitar divaḥ | yó vyàucchaḥ sahīyasi satyáśravasi vāyyé sujāte aśvasūnṛte ||
May she bring to us today the wealth of being; shine out, O Daughter of Heaven—you who have shone forth and grow in power: O true-hearing one, moving in the life-breath, well-born, bringing swift force and the glad word.
सा । नः॒ । अ॒द्य । आ॒भ॒रत्ऽव॑सुः । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ । यो इति॑ । वि । औच्छः॑ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥सा । नः । अद्य । आभरत्वसुः । वि । उच्छ । दुहितः । दिवः । यो इति । वि । औच्छः । सहीयसि । सत्यश्रवसि । वाय्ये । सुजाते । अश्वसूनृते ॥sā | naḥ | adya | ābharat-vasuḥ | vi | uccha | duhitaḥ | divaḥ | yo iti | vi | aucchaḥ | sahīyasi | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte