Sukta 5.73
इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शंतमा । या तक्षाम रथाँ इवावोचाम बृहन्नमः ॥
इ॒मा ब्रह्मा॑णि॒ वर्ध॑ना॒श्विभ्यां॑ सन्तु॒ शंत॑मा । या तक्षा॑म॒ रथाँ॑ इ॒वावो॑चाम बृ॒हन्नम॑: ॥
imā́ bráhmāṇi várdhanā́śvibhyāṃ santu śáṃtamā | yā́ tákṣāma ráthāṃ ivávócāma bṛhán námaḥ ||
May these mantras, fostering growth, be most full of peace for the Aśvins. As one fashions chariots, so have we shaped our utterance; we speak a vast and widening homage.
इ॒मा । ब्रह्मा॑णि । वर्ध॑ना । अ॒श्विऽभ्या॑म् । स॒न्तु॒ । शम्ऽत॑मा । या । तक्षा॑म । रथा॑न्ऽइव । अवो॑चाम । बृ॒हत् । नमः॑ ॥इमा । ब्रह्माणि । वर्धना । अश्विभ्याम् । सन्तु । शम्तमा । या । तक्षाम । रथान्इव । अवोचाम । बृहत् । नमः ॥imā | brahmāṇi | vardhanā | aśvi-bhyām | santu | śam-tamā | yā | takṣāma | rathān-iva | avocāma | bṛhat | namaḥ