Sukta 5.73
यदद्य स्थः परावति यदर्वावत्यश्विना । यद्वा पुरू पुरुभुजा यदन्तरिक्ष आ गतम् ॥
यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना । यद्वा॑ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम् ॥
yád adyá sthaḥ parāváti yád ārvāváty aśvinā | yád vā purū́ puru-bhujā yád antárikṣa ā́ gatam ||
Wherever today you stand—far away or near at hand, O Aśvins—whether among many fields of enjoyment, O givers of abundant help, or whether in the mid-world, from there come to us.
यत् । अ॒द्य । स्थः॒ । पा॒रा॒ऽवति॑ । यत् । आ॒र्वा॒ऽवति॑ । अ॒श्वि॒ना॒ । यत् । वा॒ । पु॒रु । पु॒रु॒ऽभु॒जा॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒त॒म् ॥यत् । अद्य । स्थः । पारावति । यत् । आर्वावति । अश्विना । यत् । वा । पुरु । पुरुभुजा । यत् । अन्तरिक्षे । आ । गतम् ॥yat | adya | sthaḥ | pārāvati | yat | ārvāvati | aśvinā | yat | vā | puru | puru-bhujā | yat | antarikṣe | ā | gatam