Sukta 5.7
यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे । प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥
यं मर्त्य॑: पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से । प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥
yáṃ mártyaḥ puru-spṛ́haṃ vidád víśvasya dhā́yase | prá svā́danaṃ pitū́nām ásta-tātiṃ cid ā́yave ||
Whom the mortal discovers—much-desired—as the establisher for all, he brings forward for the seeker the sweetness of the nourishments, even a widening abundance of the home-state.
यम् । मर्त्यः॑ । पु॒रु॒ऽस्पृह॑म् । वि॒दत् । विश्व॑स्य । धाय॑से । प्र । स्वाद॑नम् । पि॒तू॒नाम् । अस्त॑ऽतातिम् । चि॒त् । आ॒यवे॑ ॥यम् । मर्त्यः । पुरुस्पृहम् । विदत् । विश्वस्य । धायसे । प्र । स्वादनम् । पितूनाम् । अस्ततातिम् । चित् । आयवे ॥yam | martyaḥ | puru-spṛham | vidat | viśvasya | dhāyase | pra | svādanam | pitūnām | asta-tātim | cit | āyave