Sukta 5.63
वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम् । अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम् ॥
वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत म॒रुत॒: सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस॑म् ॥
vā́caṃ su mitrāvaruṇāv írāvatīṃ párjanyaś citrā́ṃ vadati tvíṣī-matīm | abhrā́ vasata marútaḥ su māyáyā dyā́ṃ varṣayatam aruṇā́m arepásam ||
A rich and fostering Word, O Mitra and Varuṇa, Parjanya utters—brilliant, full of force. O Maruts, dwell in the clouds by a wise formative power; and make the heaven rain, the ruddy one, stainless and unhurt—pouring down pure vitality.
वाच॑म् । सु । मि॒त्रा॒व॒रु॒णौ॒ । इरा॑ऽवतीम् । प॒र्जन्यः॑ । चि॒त्राम् । व॒द॒ति॒ । त्विषि॑ऽमतीम् । अ॒भ्रा । व॒स॒त॒ । म॒रुतः॑ । सु । मा॒यया॑ । द्याम् । व॒र्ष॒य॒त॒म् । अ॒रु॒णाम् । अ॒रे॒पस॑म् ॥वाचम् । सु । मित्रावरुणौ । इरावतीम् । पर्जन्यः । चित्राम् । वदति । त्विषिमतीम् । अभ्रा । वसत । मरुतः । सु । मायया । द्याम् । वर्षयतम् । अरुणाम् । अरेपसम् ॥vācam | su | mitrāvaruṇau | irāvatīm | parjanyaḥ | citrām | vadati | tviṣi-matīm | abhrā | vasata | marutaḥ | su | māyayā | dyām | varṣayatam | aruṇām | arepasam