Sukta 5.63
रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु । रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥
रथं॑ युञ्जते म॒रुत॑: शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु । रजां॑सि चि॒त्रा वि च॑रन्ति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम् ॥
ráthaṃ yuñjate marútaḥ śubhé súkhaṃ śū́ro ná mitrāvaruṇā gáv-iṣṭiṣu | rajā́ṃsi citrā́ ví caranti tanyávo diváḥ samrājā pàyasā na ukṣatam ||
The Maruts yoke their chariot for a bright and happy movement, like warriors in the seeking of the Light; and the varied thunders range through the spaces. O co-kings of heaven, Mitra and Varuṇa, pour upon us with your milk of nourishment—your sustaining essence.
रथ॑म् । यु॒ञ्ज॒ते॒ । म॒रुतः॑ । शु॒भे । सु॒खम् । शूरः॑ । न । मि॒त्रा॒व॒रु॒णा॒ । गोऽइ॑ष्टिषु । रजां॑सि । चि॒त्रा । वि । च॒र॒न्ति॒ । त॒न्यवः॑ । दि॒वः । स॒म्ऽरा॒जा॒ । पय॑सा । नः॒ । उ॒क्ष॒त॒म् ॥रथम् । युञ्जते । मरुतः । शुभे । सुखम् । शूरः । न । मित्रावरुणा । गोइष्टिषु । रजांसि । चित्रा । वि । चरन्ति । तन्यवः । दिवः । सम्राजा । पयसा । नः । उक्षतम् ॥ratham | yuñjate | marutaḥ | śubhe | sukham | śūraḥ | na | mitrāvaruṇā | go--iṣṭiṣu | rajāṃsi | citrā | vi | caranti | tanyavaḥ | divaḥ | sam-rājā | payasā | naḥ | ukṣatam