Sukta 5.63
धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया । ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथम् ॥
धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑ । ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथ॒: सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ॑म् ॥
dhármaṇā mitrāvaruṇā vipaścitā vratā́ rakṣethe ásurasya māyáyā | ṛténa víśvaṃ bhúvanaṃ ví rājathaḥ sū́ryam ā́ dhattho diví citryáṃ rátham ||
By the law of rightness, O Mitra and Varuṇa, wise in discernment, you guard the ordinances through the sovereign power of formation. By Ṛta you reign over all becoming; you set the Sun in heaven upon his radiant chariot—truth’s vision established above.
धर्म॑णा । मि॒त्रा॒व॒रु॒णा॒ । वि॒पः॒ऽचि॒ता॒ । व्र॒ता । र॒क्षे॒थे॒ इति॑ । असु॑रस्य । मा॒यया॑ । ऋ॒तेन॑ । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒थः॒ । सूर्य॑म् । आ । ध॒त्थः॒ । दि॒वि । चित्र्य॑म् । रथ॑म् ॥धर्मणा । मित्रावरुणा । विपःचिता । व्रता । रक्षेथे इति । असुरस्य । मायया । ऋतेन । विश्वम् । भुवनम् । वि । राजथः । सूर्यम् । आ । धत्थः । दिवि । चित्र्यम् । रथम् ॥dharmaṇā | mitrāvaruṇā | vipaḥ-citā | vratā | rakṣetheiti | asurasya | māyayā | ṛtena | viśvam | bhuvanam | vi | rājathaḥ | sūryam | ā | dhatthaḥ | divi | citryam | ratham