Sukta 5.63
माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम् । तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥
मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् । तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मन्त ईरते ॥
māyā́ vāṃ mitrāvaruṇā diví śritā́ sū́ryo jyótiś carati citrám ā́yudham | tám abhreṇa vṛṣṭyā́ gūhatho diví párjanya drapsā́ mádhu-manta īrate ||
Your formative power, O Mitra and Varuṇa, is set in heaven: the Sun moves as a light, a wondrous weapon. You veil him there with cloud and rain; then Parjanya’s drops surge forth, bearing sweetness—delight that feeds the earth and the soul.
मा॒या । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दि॒वि । श्रि॒ता । सूर्यः॑ । ज्योतिः॑ । च॒र॒ति॒ । चि॒त्रम् । आयु॑धम् । तम् । अ॒भ्रेण॑ । वृ॒ष्ट्या । गू॒ह॒थः॒ । दि॒वि । पर्ज॑न्य । द्र॒प्सा । मधु॑ऽमन्तः । ई॒र॒ते॒ ॥माया । वाम् । मित्रावरुणा । दिवि । श्रिता । सूर्यः । ज्योतिः । चरति । चित्रम् । आयुधम् । तम् । अभ्रेण । वृष्ट्या । गूहथः । दिवि । पर्जन्य । द्रप्सा । मधुमन्तः । ईरते ॥māyā | vām | mitrāvaruṇā | divi | śritā | sūryaḥ | jyotiḥ | carati | citram | āyudham | tam | abhreṇa | vṛṣṭyā | gūhathaḥ | divi | parjanya | drapsā | madhu-mantaḥ | īrate