Sukta 5.63
सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी । चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥
स॒म्राजा॑ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती॑ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी । चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥
sam-rājā́ ugrā́ vṛṣabhā́ divás pátī pṛthivyā́ mitrā́varuṇā vícarṣaṇī | citrébhir abhráir úpa tiṣṭhatho rávam dyā́ṃ varṣayatho ásurasya māyáyā ||
Co-sovereigns, mighty, bull-like lords of heaven and earth, O Mitra and Varuṇa who move among men: with radiant clouds you take your stand upon the roar, and by the Asura’s power of formation you make heaven pour its rains.
स॒म्ऽराजौ॑ । उ॒ग्रा । वृ॒ष॒भा । दि॒वः । पती॑ इति॑ । पृ॒थि॒व्याः । मि॒त्रावरु॑णा । विच॑र्षणी॒ इति॒ विऽच॑र्षणी । चि॒त्रेभिः॑ । अ॒भ्रैः । उप॑ । ति॒ष्ठ॒थः॒ । रव॑म् । द्याम् । व॒र्ष॒य॒थः॒ । असु॑रस्य । मा॒यया॑ ॥सम्राजौ । उग्रा । वृषभा । दिवः । पती इति । पृथिव्याः । मित्रावरुणा । विचर्षणी इति विचर्षणी । चित्रेभिः । अभ्रैः । उप । तिष्ठथः । रवम् । द्याम् । वर्षयथः । असुरस्य । मायया ॥sam-rājau | ugrā | vṛṣabhā | divaḥ | patīiti | pṛthivyāḥ | mitrāvaruṇā | vicarṣaṇī itivi-carṣaṇī | citrebhiḥ | abhraiḥ | upa | tiṣṭhathaḥ | ravam | dyām | varṣayathaḥ | asurasya | māyayā