Sukta 5.63
सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा । वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥
स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑ । वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रन्ति त॒न्यव॑: ॥
sam-rājā́v asyá bhúvanasya rājatho mitrā́varuṇā vidáthe svàr-dṛśā́ | vṛṣṭíṃ vāṃ rā́dho amṛta-tvám īmahe dyā́vā-pṛthivī́ ví caranti tanyávaḥ ||
As joint sovereigns you rule this world, O Mitra and Varuṇa, seeing by the light of heaven in the assemblies of sacrifice. We seek from you the rain, the plenitude, and the immortal being; and Heaven and Earth move wide with the thunder’s powers.
स॒म्ऽराजौ॑ । अ॒स्य । भुव॑नस्य । रा॒ज॒थः॒ । मित्रा॑वरुणा । वि॒दथे॑ । स्वः॒ऽदृशा॑ । वृ॒ष्टिम् । वा॒म् । राधः॑ । अ॒मृ॒त॒ऽत्वम् । ई॒म॒हे॒ । द्यावा॑पृथि॒वी इति॑ । वि । च॒र॒न्ति॒ । त॒न्यवः॑ ॥सम्राजौ । अस्य । भुवनस्य । राजथः । मित्रावरुणा । विदथे । स्वःदृशा । वृष्टिम् । वाम् । राधः । अमृतत्वम् । ईमहे । द्यावापृथिवी इति । वि । चरन्ति । तन्यवः ॥sam-rājau | asya | bhuvanasya | rājathaḥ | mitrāvaruṇā | vidathe | svaḥ-dṛśā | vṛṣṭim | vām | rādhaḥ | amṛta-tvam | īmahe | dyāvāpṛthivī iti | vi | caranti | tanyavaḥ