Sukta 5.63
ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि । यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः ॥
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि । यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥
ṛtásya gopā́v ádhi tiṣṭhatho ráthaṃ sátya-dharmāṇā paráme vyòmani | yám átra mitrāvaruṇā́v ávatho yuváṃ tásmai vṛṣṭír mádhu-mat pinvate diváḥ ||
Guardians of Ṛta, you stand upon your chariot in the highest heaven, established in the law of Truth. Whomever you two support here, for him the rain from heaven is pressed out as sweetness—nourishment for the growth of the soul.
ऋत॑स्य । गो॒पौ॒ । अधि॑ । ति॒ष्ठ॒थः॒ । रथ॑म् । सत्य॑ऽधर्माणा । प॒र॒मे । विऽओ॑मनि । यम् । अत्र॑ । मि॒त्रा॒व॒रु॒णा॒ । अव॑थः । यु॒वम् । तस्मै॑ । वृ॒ष्टिः । मधु॑ऽमत् । पि॒न्व॒ते॒ । दि॒वः ॥ऋतस्य । गोपौ । अधि । तिष्ठथः । रथम् । सत्यधर्माणा । परमे । विओमनि । यम् । अत्र । मित्रावरुणा । अवथः । युवम् । तस्मै । वृष्टिः । मधुमत् । पिन्वते । दिवः ॥ṛtasya | gopau | adhi | tiṣṭhathaḥ | ratham | satya-dharmāṇā | parame | vi-omani | yam | atra | mitrāvaruṇā | avathaḥ | yuvam | tasmai | vṛṣṭiḥ | madhu-mat | pinvate | divaḥ