Sukta 5.61
एष क्षेति रथवीतिर्मघवा गोमतीरनु । पर्वतेष्वपश्रितः ॥
ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ । पर्व॑ते॒ष्वप॑श्रितः ॥
eṣá kṣéti rátha-vītir maghávā gómātīr ánu | párvateṣv ápa-śritaḥ ||
This is the abiding chariot-drive of the Bounteous One: he moves along the luminous ‘cows’ (rays of knowledge), leaning upon the heights—supported by the mountains of firm consciousness.
ए॒षः । क्षे॒ति॒ । रथ॑ऽवीतिः । म॒घऽवा॑ । गोऽम॑तीः । अनु॑ । पर्व॑तेषु । अप॑ऽश्रितः ॥एषः । क्षेति । रथवीतिः । मघवा । गोमतीः । अनु । पर्वतेषु । अपश्रितः ॥eṣaḥ | kṣeti | ratha-vītiḥ | magha-vā | go--matīḥ | anu | parvateṣu | apa-śritaḥ