Sukta 5.61
यो मे धेनूनां शतं वैददश्विर्यथा ददत् । तरन्त इव मंहना ॥
यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् । त॒र॒न्त इ॑व मं॒हना॑ ॥
yó mé dhenūnā́ṃ śatáṃ vaídad-aśvir yáthā́ dádat | taránta iva maṃhánā ||
He who found for me a hundred streams of the nourishing powers, and gave them as is fitting—he is like one crossing beyond by an abundant impulsion.
यः । मे॒ । धे॒नू॒नाम् । श॒तम् । वैद॑त्ऽअश्विः । यथा॑ । दद॑त् । त॒र॒न्तःऽइ॑व । मं॒हना॑ ॥यः । मे । धेनूनाम् । शतम् । वैदत्अश्विः । यथा । ददत् । तरन्तःइव । मंहना ॥yaḥ | me | dhenūnām | śatam | vaidat-aśviḥ | yathā | dadat | tarantaḥ-iva | maṃhanā