Sukta 5.61
के ष्ठा नरः श्रेष्ठतमा य एकएक आयय । परमस्याः परावतः ॥
के ष्ठा॑ नर॒: श्रेष्ठ॑तमा॒ य एक॑एक आय॒य । प॒र॒मस्या॑: परा॒वत॑: ॥
ke ṣṭhā naraḥ śreṣṭhatamā ya ekaeka āyaya | paramasyāḥ parāvataḥ ||
Who are you, O heroes, the most excellent, who have come each one by himself from the farthest distance of the supreme realm?
कः । स्थ॒ । न॒रः॒ । श्रेष्ठ॑ऽतमाः । ये । एकः॑ऽएकः । आ॒ऽय॒य । प॒र॒मस्याः॑ । प॒रा॒ऽवतः॑ ॥कः । स्थ । नरः । श्रेष्ठतमाः । ये । एकःएकः । आयय । परमस्याः । परावतः ॥kaḥ | stha | naraḥ | śreṣṭha-tamāḥ | ye | ekaḥ-ekaḥ | āyaya | paramasyāḥ | parāvataḥ