Sukta 5.6
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥
आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म् । यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
ā́ te agna idhīmahi dyumántaṃ deva ajáram | yád dha syā́ te panī́yasī samídd dī́dayati dyávi íṣaṃ stotṛ́bhya ā́ bhara ||
Toward thee, O Agni, we kindle the luminous, the divine, the unaging; for when thy most desirable kindling is lit, it shines out in heaven—bring then the impulsion of increase to the singers.
आ । ते॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् । यत् । ह॒ । स्या । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥आ । ते । अग्ने । इधीमहि । द्युमन्तम् । देव । अजरम् । यत् । ह । स्या । ते । पनीयसी । सम्इत् । दीदयति । द्यवि । इषम् । स्तोतृभ्यः । आ । भर ॥ā | te | agne | idhīmahi | dyu-mantam | deva | ajaram | yat | ha | syā | te | panīyasī | sam-it | dīdayati | dyavi | iṣam | stotṛ-bhyaḥ | ā | bhara