Sukta 5.6
आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥
आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते । सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
ā́ te agna ṛcā́ havíḥ śúkrasya śociṣaspate | suścándra dásma víśpate hávyavāṭ túbhyaṃ hū́yate íṣaṃ stotṛ́bhya ā́ bhara ||
To thee, O Agni, with the inspired chant we bring the offering—O lord of the bright flame. O fair-shining, wondrous master of the dwelling, bearer of the oblation, thou art invoked; bring the impulsion of increase to the singers.
आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । शुक्र॑स्य । शो॒चि॒षः॒ । प॒ते॒ । सुऽच॑न्द्र । दस्म॑ । विश्प॑ते । हव्य॑ऽवाट् । तुभ्य॑म् । हू॒य॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥आ । ते । अग्ने । ऋचा । हविः । शुक्रस्य । शोचिषः । पते । सुचन्द्र । दस्म । विश्पते । हव्यवाट् । तुभ्यम् । हूयते । इषम् । स्तोतृभ्यः । आ । भर ॥ā | te | agne | ṛcā | haviḥ | śukrasya | śociṣaḥ | pate | su-candra | dasma | viśpate | havya-vāṭ | tubhyam | hūyate | iṣam | stotṛ-bhyaḥ | ā | bhara